अन्य मंत्र


गुरुर्ब्रह्मा गुरुर्विष्णूः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥ ॥

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ॥

त्वमेव माता च पिता त्वमेव ।
त्वमेव बंधुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव ।
त्वमेव सर्वं मम देवदेव ॥ ॥

सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥ ॥

सर्वे भवंतु सुखिनः सर्वे संतु निरामयाः ।
सर्वे भद्राणि पश्यंतु मा कश्चिद् दुःखभाग्भवेत् ॥ ॥

आदित्याय सोमाय मङ्गलाय बुधाय च ।
गुरु शुक्र शनिभ्यश्च राहवेकेतवे नमः ॥ ॥

गङ्गेच यमुने चैव गोदावरी सरस्वती ।
नर्मदा सिंधु कावेरी जलेऽस्मिन् सन्निधं कुरु ॥ ॥

अहल्या द्रौपदी सीता तारा मन्दोदरी तथा ।
पंचकन्या स्मरेन्नित्यं महापातकनाशनम् ॥ ॥

हरे राम हरे राम राम राम हरे हरे ।
हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ॥ ॥

ॐ शांतिः शांतिः शांतिः ।