गौरीशंकर मंत्र


कर्पूरगौरं करुणावतारं
संसारसारं भुजगेन्द्रहारम् ।
सदा वसन्तं हृदयारविन्दे
भवं भवानीसहितं नमामि ॥ ॥

ॐ त्रयम्बकं यजामहे
सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्
मृत्योर्मुक्षीय मामृतात् ॥ ॥

ॐ शिव ॐ शिव, परात्परा शिव ओङ्कार शिव तव शरणम् ।
नमामि शङ्कर भजामि शङ्कर उमामहेश्वर तव शरणम् ॥ ॥

सर्वस्वरूपे सर्वेशे सर्वशक्ति समन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तुते ॥ ॥