गणेश मंत्र


वक्रतुँड महाकाय कोटिसूर्यसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ ॥

गजाननं भूतगणादिसेवितं
कपित्थजंबूफलसारभक्षितम् ।
उमासुतं शोकविनाशकारणं
नमामि विघ्नेश्वरपादपङ्कजम् ॥

शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ ॥

एकदंतं महाकायं तप्तकाञ्चनसन्निभम् ।
लंबोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥ ॥